अथर्ववेद प्रत्यंगिरा सूक्तम्


ॐ

॥ श्री प्रत्यङ्गिरा सूक्तम् ॥

(अथर्ववेदोक्तम्)

(अ.वे.का–१०.सू–१)


॥ मन्त्र १ ॥

यां कल्पयन्ति वहतौ वधूमिव विश्वरूपां हस्तकृतां चिकित्सवः ।
सारादेत्वप नुदाम एनाम् ॥ १ ॥

॥ मन्त्र २ ॥

शीर्षण्वती नस्वती कर्णिणी कृत्याकृता संभृता विश्वरूपा ।
सारादेत्वप नुदाम एनाम् ॥ २ ॥

॥ मन्त्र ३ ॥

शूद्रकृता राजकृता स्त्रीकृता ब्रह्मभिः कृता ।
जाया पत्या नुत्तेव कर्तारं बन्ध्वृच्छतु ॥ ३ ॥

॥ मन्त्र ४ ॥

अनयाहमोषध्या सर्वाः कृत्या अदूदुषम् ।
यां क्षेत्रे चक्रुर्यां गोषु यां वा ते पुरुषेषु ॥ ४ ॥

॥ मन्त्र ५ ॥

अघमस्त्वघकृते शपथः शपथीयते ।
प्रत्यक्प्रतिप्रहिण्मो यथा कृत्याकृतं हनत् ॥ ५ ॥

॥ मन्त्र ६ ॥

प्रतीचीन आङ्गिरसोऽध्यक्षो नः पुरोहितः ।
प्रतीचीः कृत्या आकृत्यामून्कृत्याकृतो जहि ॥ ६ ॥

॥ मन्त्र ७ ॥

यस्त्वोवाच परेहीति प्रतिकूलमुदाय्यऽम् ।
तं कृत्येऽभिनिवर्तस्व मास्मानिच्छो अनागसः ॥ ७ ॥

॥ मन्त्र ८ ॥

यस्ते परूंषि संदधौ रथस्येवर्भुर्धिया ।
तं गच्छ तत्र तेऽयनमज्ञातस्तेऽयं जनः ॥ ८ ॥

॥ मन्त्र ९ ॥

ये त्वा कृत्वालेभिरे विद्वला अभिचारिणः ।
शंभ्वीदं कृत्यादूषणं प्रतिवर्त्म पुनःसरं तेन त्वा स्नपयामसि ॥ ९ ॥

॥ मन्त्र १० ॥

यद्दुर्भगां प्रस्नपितां मृतवत्सामुपेयिम ।
अपैतु सर्वं मत्पापं द्रविणं मोप तिष्ठतु ॥ १० ॥

॥ मन्त्र ११ ॥

यत्ते पितृभ्यो ददतो यज्ञे वा नाम जगृहुः ।
सन्देश्यात्सर्वस्मात्पापादिमा मुञ्चन्तु त्वौषधीः ॥ ११ ॥

॥ मन्त्र १२ ॥

देवैनसात्पित्र्यान्नामग्राहात्संदेश्याऽदभिनिष्कृतात् ।
मुञ्चन्तु त्वा वीरुधो वीर्येऽण ब्रह्मणा ऋग्भिः पयस ऋषीणाम् ॥ १२ ॥

॥ मन्त्र १३ ॥

यथा वातश्च्यावयति भूम्या रेणुमन्तरिक्षाच्चाभ्रम् ।
एवा मत्सर्वं दुर्भूतं ब्रह्मनुत्तमपायति ॥ १३ ॥

॥ मन्त्र १४ ॥

अप क्राम नानदती विनद्धा गर्दभीव ।
कर्तॄन्नक्षस्वेतो नुत्ता ब्रह्मणा वीर्याऽवता ॥ १४ ॥

॥ मन्त्र १५ ॥

अयं पन्थाः कृत्येति त्वा नयामोऽभिप्रहितां प्रति त्वा प्र हिण्मः ।
तेनाभि याहि भञ्जत्यनस्वतीव वाहिनी विश्वरूपा कुरूटिनी ॥ १५ ॥

॥ मन्त्र १६ ॥

पराक्ते ज्योतिरपथं ते अर्वागन्यत्रास्मदयना कृणुष्व ।
परेणेहि नवतिं नाव्या अति दुर्गाः स्रोत्या मा क्षणिष्ठाः परेहि ॥ १६ ॥

॥ मन्त्र १७ ॥

वात इव वृक्षान्नि मृणीहि पादय मा गामश्वं पुरुषमुच्छिष एषाम् ।
कर्तॄन् निवृत्येतः कृत्येऽप्रजास्त्वाय बोधय ॥ १७ ॥

॥ मन्त्र १८ ॥

यां ते बर्हिषि यां श्मशाने क्षेत्रे कृत्यां वलगं वा निचख्नुः ।
अग्नौ वा त्वा गार्हपत्येऽभिचेरुः पाकं सन्तं धीरतरा अनागसम् ॥ १९ ॥

॥ मन्त्र १९ ॥

उपाहृतमनुबुद्धं निखातं वैरं त्सार्यन्वविदाम कर्त्रम् ।
तदेतु यत आभृतं तत्राश्व इव वि वर्ततां हंतु कृत्याकृतः प्रजाम् ॥ १९ ॥

॥ मन्त्र २० ॥

स्वायसा असयः संति नो गृहे विद्मा ते कृत्ये यतिधा परूंषि ।
उत्तिष्ठैव परेहीतोऽज्ञाते किमिहेच्छसि ॥ २० ॥

॥ मन्त्र २१ ॥

ग्रीवास्ते कृत्ये पादौ चापि कर्त्स्यामि निर्द्रव ।
इन्द्राग्नी अस्मान्रक्षतां यौ प्रजानां प्रजावती ॥ २१ ॥

॥ मन्त्र २२ ॥

सोमो राजाधिपा मृडिता च भूतस्य नः पतयो मृडयन्तु ॥ २२ ॥

॥ मन्त्र २३ ॥

भवाशर्वावस्यतां पापकृते कृत्याकृते ।
दुष्कृते विद्युतं देवहेतिम् ॥ २३ ॥

॥ मन्त्र २४ ॥

यद्येयथ द्विपदी चतुष्पदी कृत्याकृता संभृता विश्वरूपा ।
सेतोष्टापदी भूत्वा पुनः परेहि दुच्छुने ॥ २४ ॥

॥ मन्त्र २५ ॥

अभ्यक्ताक्ता स्वऽरंकृता सर्वं भरन्ती दुरितं परेहि ।
जानीहि कृत्ये कर्तारं दुहितेव पितरं स्वम् ॥ २५ ॥

॥ मन्त्र २६ ॥

परेहि कृत्ये मा तिष्ठो विद्धस्येव पदं नय ।
मृगः स मृगयुस्त्वं न त्वा निकर्तुमर्हति ॥ २६ ॥

॥ मन्त्र २७ ॥

उत हन्ति पूर्वासिनं प्रत्यादायापर इष्वा ।
उत पूर्वस्य निघ्नतो नि हन्त्यपरः प्रति ॥ २७ ॥

॥ मन्त्र २८ ॥

एतद्धि शृणु मे वचोऽथेहि यत एयथ ।
यस्त्वा चकार तं प्रति ॥ २८ ॥

॥ मन्त्र २९ ॥

अनागोहत्या वै भीमा कृत्ये मा नो गामश्वं पुरुषं वधीः ।
यत्रयत्रासि निहिता ततस्त्वोत्थापयामसि पर्णाल्लघीयसी भव ॥ २९ ॥

॥ मन्त्र ३० ॥

यदि स्थ तमसावृता जालेनाभिहिता इव ।
सर्वाः संलुप्येतः कृत्याः पुनः कर्त्रे प्र हिण्मसि ॥ ३० ॥

॥ मन्त्र ३१ ॥

कृत्याकृतो वलगिनोऽभिनिष्कारिणः प्रजाम् ।
मृणीहि कृत्ये मोच्छिषोऽमून्कृत्याकृतो जहि ॥ ३१ ॥

॥ मन्त्र ३२ ॥

यथा सूर्यो मुच्यते तमसस्परि रात्रिं जहात्युषसश्च केतून् ।
एवाहं सर्वं दुर्भूतं कर्त्रं कृत्याकृता कृतं हस्तीव रजो दुरितं जहामि ॥ ३२ ॥


॥ इति अथर्ववेदोक्तं श्री प्रत्यङ्गिरा सूक्तम् ॥

(कृत्यापरिहरण सूक्तम्) सम्पूर्णम्

ॐ

🔱 शिव शक्ति सेवा धाम 🔱

तंत्रशक्ति पीठ एवं साधना केंद्र, दिल्ली

🙏 हमारी प्रमुख सेवाएँ

  • 🕉️ गुरु-दीक्षा एवं साधना संबंधी मार्गदर्शन

  • 📿 मंत्र-जप एवं मंत्र-साधना संबंधी जानकारी

  • 🔱 महाविद्या साधना संबंधी मार्गदर्शन

  • 🛡️ आध्यात्मिक सुरक्षा एवं रक्षा-साधना संबंधी जानकारी

  • 📖 स्तोत्र, कवच एवं मंत्रों का पाठ और उनका अर्थ

  • 🪔 पूजा-पाठ, हवन एवं धार्मिक अनुष्ठानों की जानकारी

  • 📚 तंत्र-मंत्र एवं शास्त्रीय विषयों पर मार्गदर्शन

  • 🌺 मंत्र-संस्कारित साधना सामग्री संबंधी जानकारी

📞 संपर्क करें

शिव शक्ति सेवा धाम
तंत्रशक्ति पीठ एवं साधना केंद्र, दिल्ली

📍 पता: शिव शक्ति सेवा धाम, तंत्रशक्ति पीठ एवं साधना केंद्र, दिल्ली

💚 व्हाट्सऐप: 7042510765 पर संपर्क करें

॥ जय माँ भगवती! ॥
॥ हर हर महादेव! ॥


⚠️ आवश्यक सूचना: सभी तांत्रिक क्रियाएँ व साधनाएं सिर्फ जानकारी के उद्देश्य से दी गई हैं, गुरु के मार्गदर्शन मे ही कोई साधना व तंत्र क्रिया करें अन्यथा आप पर विपरीत प्रभाव भी हो सकता है। किसी के ऊपर दुरुपयोग न करें एवं साधना मे त्रुटि से होने वाले किसी भी क्षति  व हानि के उत्तरदायी आप स्वयं होंगे, शिव शक्ति सेवा धाम तंत्रशक्ति पीठ एवं साधना केंद्र इसके लिए किसी भी प्रकार से उत्तरदायी नहीं होगा।